शब्दकल्पद्रुमः
शुकी || स्त्री (शुक + ङीष् ।) कश्यपपत्नी । यथा, “शुकी श्येनी च भाषा च सुग्रीवा शुचि- गृध्रिका ॥” अत्र शुचिभाषिका इत्यपि पाठः । “शुकी शुकानजनयदुलूकी प्रत्युलूककान् ॥” इति गारुडे ६ अध्यायः ॥ शुकपक्षिणी च ॥