संस्कृत-शब्दकोशः

शुक्तिबीज शुक्र

शुक्तिमत्

वाचस्पत्यम्

शुक्तिमत् ||‍ पु० शुक्तिरस्त्यस्य मतुप् । १ कुलाचलपर्वतभेदे २ नदीभेदे स्त्री ङीप् ।


शब्दकल्पद्रुमः

शुक्तिमान् || [त्] पुं, पर्व्वतविशेषः । यथा, —
“महेन्द्रो मलयः सह्यः शुक्तिमान् गन्धमादनः । बिन्ध्यश्च पारिपात्रश्च सप्तैते च कुलाचलाः ॥” इति त्रिकाण्डशेषः ॥



Correction: