वाचस्पत्यम्
शुक्रभुज् || स्त्री शुक्रं भुङ्क्ते भुज—क्विप् । मयूरजातिस्त्रियां शब्दच० ।
शब्दकल्पद्रुमः
शुक्रभुक् || [ज्] पुं, (शुक्रं भुङ्क्ते इति । भुज + क्विप् ।) मयूरः । इति शब्दचन्द्रिका ॥ रेतो- भोजके, त्रि ॥