वाचस्पत्यम्
शुक्रिय || त्रि० शुक्रोदेवताऽस्य तस्येदम् वा घ । १ शुक्रसम्ब- न्धिनि २ तद्दैवते यजुर्वेदीये “ऋचं वाचमि” त्यादिके षट्- त्रिं शत्तमे ३ शान्त्यध्याये न० ।
शब्दकल्पद्रुमः
शुक्रियः || त्रि शुक्रसम्बन्धी । शुक्रशब्दात् इयप्रत्यय निष्पन्नः ॥ (शुक्रो देवता अस्येति । शुक्र + “शुक्रात् । घन् ।” ४ । २ । २६ । इति घन् । शुक्रदेवताको हविरादिः । इति सिद्धान्तकौमुदी यथा, याज्ञवल्क्ये ! ३ । ३०८ । “शुक्रियारण्यकजपा गायत्त्र्याश्च विशेषतः ॥”)