वाचस्पत्यम्
शुक्ल || न० शुच—लक् कुत्वम् । १ रजते मेदि० । २ नवनीते शब्दच० । ३ अक्षिरोगभेदे चक्षूरोगशब्दे २८४४ पृ० दृश्यम् । ४ श्वेतवर्णे ५ श्वेतवर्णयुते त्रि० अमरः । ६ शुद्धे च त्रि० । ७ विष्कम्भादिषु योगभेदे मेदि० । ९ श्वेतैरण्डे राजनि० १० शुक्लपक्षे ज्यो० त० । “तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” षट्त्रिंशन्मतम् । शुक्लवर्णपदार्थास्तु कविकल्पलताथां कति- चित् उक्ता यथा “सुधांशूच्चैःश्रवाः शम्भुः कीर्त्तिर्ज्यो- त्स्ना शरद्घनाः । प्रासादसौधतगरमन्दारद्रुहिभाद्रयः । सूर्येन्दुकान्तकर्पू करम्भा रजतं हली । निर्मोकभस्म- हिण्डीरचन्दनं करका हिमम् । हारोर्णनाभस्तन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् । शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधा जलम् । मृणालसिकताहंसवककैरवचामरम् । रम्भागर्भं पुण्डरीकं केतकीशङ्खनिर्झराः । लोध्रसिंह ध्वजच्छत्रं चूर्णशुक्तिकपर्दका । मुक्ताकुसुमनक्षत्र- दन्तपुण्योशनोगुणाः । कैलासकासकार्पामहासवासव- कुञ्जराः । नारदः पारदः कुन्दखटिकास्फटिकादयः” ।
शब्दकल्पद्रुमः
शुक्लं || क्ली (शुच शौचे + “ऋज्रेन्द्रेति ।” उणा० २ । २८ । इति रन् प्रत्ययेण माधु ।)
रजतम् । इति मेदिना ॥ नवनातम् । इति चब्दचन्दिका । अक्षिरोगविशेषः । इति जटाधरः ॥ स तु चक्षुःशुक्लभागजरोगः । तद्विरणं यथा, —
“प्रस्तारिशुक्लक्षतजाधिमांस- साग्वर्म्मसंज्ञाः खलु पञ्च रोगाः ॥” तत्र शुक्लमाह । “सुश्वे तं मृदुशुक्लार्म्मं शुक्लं तद्वर्द्धते चिरात् ॥” अस्य चिकित्सा । “भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ स्नानं कृष्णतिलैर्व्वापि चक्षुष्यमनिलापहम् । आमलैः सततं स्नानं परदृष्टिबलापहम् ॥ शुण्ठीनिम्बदलैः पिण्डीसुखोष्णास्वल्पसैन्धवा । धार्य्या नेत्रेऽनिलश्ले ष्मशोथकण्डूव्यथाहरी । त्रिफला पिण्डिका नेत्रे वातपित्तकफापहा ॥” अन्यदौषधं शुक्तिशुक्रशब्दयोर्द्रष्टव्यम् । काञ्जि- कादि । यथा, —
“कार्त्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु । कार्त्तिके वर्ज येत्कांस्यं कार्त्तिके शुक्लसन्धि- तम् ॥” इति श्रीगोपालभट्टविलिखिते भगवद्भक्ति- विलासे १६ विलामः ॥ शुक्लं काञ्जिकादि- पर्य्युषिताम्लद्रष्यं मन्धितञ्च वर्जयेत् । इति श्रीजीवगोस्वामिकृततट्टीका दिद्गर्शनी ॥
शब्दकल्पद्रुमः
शुक्लः || पुं, (शुच + रन् । रस्य लः ।)
वर्णविशेषः सादा इति भाषा । तत्पर्य्यायः । शुभ्रः २ शुचिः- ३ श्वेतः ४ विशदः ५ श्येतः ६ पाण्डरः ७ अव- दातः ८ सितः ९ गौरः १० वलक्षः ११ धवलः १२ अर्ज्जुनः १३ । इत्यमरः ॥ श्वेता १४ श्येता १५ श्येनी १६ विषदः १७ मिता १८ अवलक्षः १९ । इति तट्टीका ॥ शितिः २० पाण्डुः २१ । इति शब्दरत्नावली ॥ रामः २२ खरुः २३ । इति जटाधरः ॥ शक्रयोगः । इति मेदिनी ॥ श्वेतेरण्डः । इति राजनिर्घण्टः ॥ शुक्लपक्षः । यथा षट्त्रिंशन्मतम् । “तत्र पक्षावभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥” इति तिथ्यादितत्त्वम् ॥ शुक्लगुणयुक्ते, त्रि ॥ * ॥
शुक्लवस्तूनि यथा, —
“सुधांशूच्चैःश्रवाः शम्भुकीर्त्तिज्योत्स्नाशर- द्घनाः । प्रासादसौधतगरमन्दारद्रुहिमाद्रयः ॥ सूर्य्येन्दुकान्तकर्पूरकरम्भा रजतं हली । निर्मोकभस्महिण्डीरचन्दनं करका हिमम् ॥ हारोर्णनाभतन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् । शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधा जलम् ॥ मृणालसिकताहसवककैरवचामरम् । रम्भागर्भं पुण्डरीककेतकीशङ्खनिर्झराः ॥ लोध्रसिंहध्वजच्छत्रचूर्णशुक्तिकपर्द्दकाः । मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः ॥ कैलासकाशकार्पासहासवासवकुञ्जराः । नारदः पारदः कुन्दखटिकास्फटिकादयः ॥” इति श्वेतानि ॥ * ॥
शुक्लकृष्णवाचकानि वस्तूनि यथा, —
“सितकृष्णौ विधुहरी शितिताराभ्रकनाग- राजघनसाराः । रामपयोराश्यर्ज्जुनसिंहीजानन्तचन्द्र- हामाद्याः ॥” विधुश्चन्द्रो विष्णुश्च । हरिः कृष्णः मिंहश्च । शिती धवलमेचकौ । तारा नक्षत्रं अक्ष्णः कनीनिका च । अभ्रकं निरिजं मेघश्च नागराजः शेषो गजश्च । घनमारः कर्पूरं मेघश्रेष्ठश्च । रामो बलभद्रो दाशरथिश्च । पयोरारिर्दुग्धममूहः समद्रश्च । अर्ज्जुनः शुभ्रः पार्थश्च । मिंहीजः सिंहो राहुश्च । अनन्तो बलभद्रः कृष्णश्च । चन्द्रहासः चन्द्रहास्यं खङ्गश्च । “शङ्खकरतारकेशसदाकाशव्योमकेशतालाङ्काः । नीलांशुकाधिकेशारिष्टसदासिचयकलकण्ठाः ॥ शङ्खकरः कम्बु कान्तिः कृष्णश्च । तारकेशश्चन्द्रः उज्ज्वलबाकश्च । सदाकाशः सर्व्वदाकाशः सद् गगनञ्च । व्योमकेशः शिवो नभोबालौ च । तालाङ्को बलभद्रस्तालकलङ्कौ च । नीलांशुको बलभद्रः कृष्णकान्तिश्च । अधिकेशो अधिक- शिवो अधिकबालश्च । अरिष्टस्तक्रं काकश्च सदासिचयः सिचयो वस्त्रं असिचयः खङ्ग- समूहश्च । कलकण्ठो हंसः पिकश्च । “कलकण्ठः पिके पारावते हंसे कलध्वनौ ॥ हरिजिष्णुघनाब्धिभ्यो गजाः सिन्धुर्मुरारितः । अद्भ्यो वाहोऽब्जानि कृष्णाद्यमुना कुम्भितो द्विषः ॥” शुक्लश्यामाभिधायका भवन्तीति सम्बन्ध हरिगज ऐरावतः । एवं जिष्णुगजः । अब्धि- गजः । घनगजः । पक्षे हरिर्विष्णुर्गजो हस्ती । एवं सर्व्वत्र । गजा इति बहुवचननिर्द्देशात् गजपर्य्यायो गृह्यते । मुरारिसिन्धुर्गङ्गा कृष्ण- समुद्रौ च । अम्बुवाहः उच्चैःश्रवाः मेघश्च । कृष्णाब्जं नाभीपुण्डरीकं नीलाब्जञ्च । यमुनारि- र्बलभद्रो यमुनाद्वेषी च । “कृष्टार्थाग्रात्तटिनीवाचकशब्दात् परो वरो योज्यः । नीरदघनोपलसितसदाहिमकर-सिन्धुवेणि- पृथुलाजाभाः ॥” सितश्यामवाचका इति पूर्व्व वत् । कृष्णार्था- ग्रात्तटिनीवाचकशब्दाद्वरो यथा । कृष्णनदी- वरकान्तिः गङ्गाश्रेष्ठकान्तिः । पक्षे कृष्णनदी- वरस्य समुद्रस्येव कान्तिः । नीरदो निश्चितो दन्तो मेघश्च । घनोपलसितः घनोपलः करका तद्वत् सितः घनो मेघः तद्वदुपलसितः कान्तः । सदाहिमकरः चन्द्रः सर्पमकरौ च । सिन्धु- वेणिर्नदीप्रवाहः समुद्रकेशविन्यासौ च । पृथु- लाजाभः महती भ्रष्टधान्यस्येवाभा यस्य कृष्ण- स्येव च । तथा च । “वहलकलभवच्छायमन्धकारातिदीधितिः । सदाधिकेशवच्छायो नेकपीयसमच्छविः ॥ वपुर्महोदधिच्छायं बिभ्रत् सैन्धवकान्तिमान् । स्फाटिकी च लसल्लक्ष्मोः पट्टांशुककटिं वहन् ॥ धौताम्बरश्रियं धत्ते स्फटिकान्तश्रियान्वितः । अर्जुनद्युतिविद्योतीत्ये वमादि समुन्नयेत् ॥ *” ॥ रक्तश्वेतवाचकानि वस्तूनि यथा, —
“रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्य- कान्ताब्जाः । नवहसमहापद्मार्ककृशोदराः कमलकीलाले ॥” हरिश्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः । पुष्करं जलपद्मयोः । शतशत्रं हंसपद्मयोः । सूर्य्यकान्तः स्फटिके सूर्य्यकान्ते च । अब्जः शङ्घाम्बुजयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च । महापद्मः श्वेतनागे पद्मे च । अर्कः स्फटिक- सूर्य्ययोः । कमलं जलाम्बुजयोः । कीलालं जलरक्तयोः । “सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः । जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभि ॥” भानोः परस्मात् सुहृद्रत्नादिभिः सितरक्तौ यथा । रविमित्रं चन्द्रः रवितुल्यश्च । भानुरत्रं सूर्य्यकान्तो रविपद्मरागौच । अग्निरत्नं सूर्य्य- कान्तो अग्निपद्मरागौ च । रदांशुकं दन्तवस्त्रे अधरश्च जलशोभा जलजा चासौ शोभा चेति पक्षे पद्मकान्तिः । एवं सरोजारिशोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः । कुमु- दारिशोभा कुमुदस्पर्द्धिशोभा । पक्षे कुमुदारि- रादित्यः ॥ * ॥
पीतश्वेतवाचकानि वस्तूनि यथा, —
“पीतश्वेतौ गौरद्विजराजकपर्द्दशम्भुहरि- तार्क्ष्याः । हैमस्तोमाष्टापदमहारजतचन्द्रकलधौताः ॥” गौरः श्वेतपीतयोः । द्विजराजो गुरुचन्द्रयोः । कपर्द्दः शम्भुजटाजूटवराटयोः । शम्भुर्ब्रह्म- त्रिलीचनयोः । हरिः पिङ्गलसिंहयोः । ताक्ष्र्यो गरुडः पक्षे उच्चैःश्रवाः । हैमस्तोमः हेम्नोऽयं हैमः । पक्षे हिमस्यायम् । अष्टापदं सुवर्ण- सरभयोः । महारजतं सुवर्णरूप्ययोः । चन्द्रः स्वर्णशशाङ्कयोः । कलधौतं हेमरूप्ययोः । “सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः । दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः ॥” तारुकूटो रूप्यसमूहः । पक्षे आरकूटो रीतिः । सुशोभनमर्णः कनकञ्च ॥ * ॥
अथ श्लोकोत्ती- र्णानि । गोपतितार्क्ष्यकान्तिः रविगरुडच्छविः । पक्षे गोपतिरिन्द्रस्तस्य तार्क्ष्यस्तुरङ्गः । वाम- देवगिरिर्मनोज्ञमेरुः कैलासश्च । इति कवि- कल्पलतायाम् २ श्लेषे उद्दिष्टवर्णनं १ कुसुमम् ॥