शब्दकल्पद्रुमः
शुक्लकः || पुं, (शुक्ल + स्वार्थे कन् ।) शुक्लपक्षः । यथा, — “पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदशं स्सृताः । दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥” इति तिथ्यादितत्त्वन् ॥ श्वेतवर्णश्च ॥