वाचस्पत्यम्
शुक्लपक्ष || पु० कर्म० । १ वृद्ध्यनुगुणचन्द्रकलाक्रियापञ्चदशकात्मके चान्द्रमासार्द्धे श्येतच्छदे २ वके पुंस्त्री० । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
शुक्लपक्षः || पुं, (शुक्लः पक्षः ।)
सितपक्षः । चन्द्र- सम्बन्धि-वृद्ध्यनुकूल-पञ्चदशकलाक्रिया-प्रचयः तत्पर्य्यायः । “सितस्त्वापूर्य्यमाणः स्यात् शुक्लश्च विशदः शुचि शुक्लपक्षः कृष्णपक्षो बहुलो वदि च स्मृतः ॥” इति राजनिर्घण्टः ॥ स तु शुक्लप्रतिपदादिर्पौर्णमास्यन्तपञ्चदश- तिथ्यात्मकः । यथा, —
“तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥” इति तिथ्यादितत्वम् ॥ * ॥
कर्म्मविशेषे तत्रोदयगामितिथेर्ग्राह्यत्वं यथा, —
“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तिथिर्ग्राह्मा यस्यामस्तमितो रविः ॥” इति विष्णुधर्म्मोत्तरम् ॥ संस्कारकर्म्मणः शुक्लपक्षकर्त्तव्यता यथा । आश्वलायनः । उदगयने आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चौडकर्म्मोपनयनगोदान- विवाहाः । विवाहः सार्व्वकालिक इत्येके ॥ * ॥
विद्यारम्भस्य शुक्लपक्षकर्त्तव्यता यथा । मदन- पारिजाते । “रवेर्गुरोर्भृगोर्लग्ने तत्स्थेऽर्केऽपीन्दुवृद्धितः । गुर्व्वर्केन्दूडुशुद्धौ च विद्यारम्भः प्रशस्यते ॥” * ॥
पुष्करिण्यारम्भस्य शुक्लपक्षकर्त्तव्यता यथा । मत्स्यपुराणे । “प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ॥” इत्यादि ॥ देवप्रतिष्ठायाः शुक्लपक्षकर्त्तव्यता यथा । व्यव- हारसमुच्चये । “प्रतिष्ठा सर्व्वदेवानां केशवस्य विशेषतः । उत्तरायण आपन्ने शुक्लपक्षे शुभे दिने ॥” गृहारम्भगृहप्रवेशयोः शुक्लपक्षकर्त्तव्यता यथा । मत्स्यपुराणे । “शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतो भयम् ॥” इति ज्योतिस्तत्त्वम् ॥ नवान्नश्राद्धस्य शुक्लपक्षकर्त्तव्यता यथा । आश्विनाधिकारे । “शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम् । गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम् । तेन देवान् पितॄंश्चैव तर्पयेदर्च्चयेत्तथा ॥” अपि च । “वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः ॥” इति तिथ्यादितत्त्वम् ॥