शब्दकल्पद्रुमः
शुक्लबलः || पुं, जिनविशेषः । यथा, — “वासुदेवा अमी कृष्णा नव शुक्ला बलास्त्वमी । अचलो विजलो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो रिष्णुद्विषस्त्वमी ॥” इति हेमचन्द्रः ॥