वाचस्पत्यम्
शुक्लापाङ्ग || पुंस्त्री० शुक्लः अपाङ्गो यस्य । मयूरे हेमच० । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
शुक्लापाङ्गः || पुं, (शुक्लो अपाङ्गौ यस्य ।)
मयूरः । इति हेमचन्द्रः ॥ श्वेतवर्णनेत्रान्ते, त्रि ॥ (यथा, मेघदूते । २३ । “शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ”)