शब्दकल्पद्रुमः
शुक्लार्म्म || [न्] क्ली, नेत्ररोगभेदः । यथा, । अथ शुक्लभागजा रोगाः । तेषां नामानि संख्या- ञ्चाह । “प्रस्तारिशुक्लक्षतजाधिमांस- स्नाय्वर्म्मसंज्ञाः खलु पञ्च रोगाः । स्याच्छुक्तिका सार्ज्जुनपिष्टकाख्या जालं शिराणां पिडिकाश्च तासाम् ॥ रोगा बलासग्रथितेन सार्द्ध- मेकादशोक्ताः खलु शुक्लभागे ॥” तेषु प्रस्तार्य्यर्मणो लक्षणमाह । “प्रस्तार्य्यर्म्म तनुस्तीर्णं श्यावरक्तनिभं सितम् ।” तनुः पुत्तली । स्तीर्णं विस्तीर्णम् । श्यावरक्त- मित्यत्र विकल्पो बोद्धव्यः ॥ * ॥
शुक्लार्म्माह । “सुश्वेतं मृदु शुक्लार्म्म शुक्लं तद्वर्द्धते चिरात् ॥” रक्तार्म्माह । “पद्माभं मृदुरक्तार्म्म यन्मांसं चीयते सिते ।” पद्माभं पर्णेन रक्तमित्यर्थः । चीयते उपचीयते ॥ अधिमांसार्म्माह । “पृथ मृद्वधिमांसार्म्म बहुलञ्च यकृन्निभम् ।” पृय विस्तीर्णम् । बहुलं पुष्टम् । यकृन्निभं ईषत् कृष्णलोहितम् ॥ * ॥
स्नाय्वर्म्माह । “स्थिरं प्रसारि मांसाद्यं शुक्लं स्नाय्वर्म्म पञ्च- मम् ।” स्थिरं कठिनम् । शुक्लं स्रावरहितम् ॥ * ॥
शुक्तिमाह । “श्यावाः स्युः पिशितनिभाश्च बिन्दवो यं शुक्लाभाः सितनिचिताः स शुक्तिसंज्ञः ।” श्यावा इत्यादिवर्णत्रये विकल्पो बोद्धव्यः ॥ * ॥
अर्ज्जुनमाह । “एको यः शशरुधिरप्रभस्तु बिन्दुः शुक्लस्थो भवति तमर्ज्जुनं वदन्ति ॥” पिष्टकमाह । “श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम् । पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ॥” पिष्टवत् श्वेतम् ॥ * ॥
शिराजालमाह । “जालाभः कठिनः शिरोऽरुणः शिराणां मन्तानो भवति शिरादिजालसंज्ञः ॥” गिरादिजालसंज्ञः शिराजालसंज्ञः ॥ * ॥
शिरापिडिकामाह । “गुक्रस्थाः सितपिडिकाः शिरावृता या- स्ता विद्यादसितसमोपजाः शिराजाः ।” वलासग्रथितमाह । “कांस्याभोऽमृदुरय वारिबिन्दुकल्पो विज्ञेयो नयनसिते वलाससंज्ञः ।” कांस्याभः श्रेत इत्यर्थः । अमृदुः कठिनः । वारिबिन्दुकल्पः एतेन मनागुन्नतत्वं बोध्यते । वलाससंज्ञः वलासग्रथितसंज्ञः । क्वचिदेकदेशे- नापि समुदयावगमात् । यथा भीमो भीमसेन इति । अतएव सुश्रुते । नामसंग्रहे वलास- ग्रथितपदं निर्द्दिष्टम् । इति भावप्रकाशः ॥