वाचस्पत्यम्
शुक्लिमन् || पु० शुक्लस्य भावः इमनिच् । श्वेतवर्णे ।
शब्दकल्पद्रुमः
शुक्लिमा || [न्] पुं, (शुक्लस्य भावः । शुक्ल + “वर्ण- दृढादिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इमनिच् ।) शुक्लता । शुक्लशब्दादिमन्प्रत्ययेन निष्पन्नः ॥