वाचस्पत्यम्
शुच || शोके क्लेदे च दिवा० उभ० अक सेट् । शुच्यति ते इरित् अशुचत् अशोचीत् अशोचिष्ट ईदित् शुक्तः । अनु + किञ्चिटुद्देशेन पश्चात्तापे सक० । अनुशोचति ।
वाचस्पत्यम्
शुच || शोके भ्वा० पर० सक० सेट् । शोचति अशोचीत् ।
शब्दकल्पद्रुमः
शुच || इर्, य ञ ई शौचे । विशरणे । क्लेदे । इति कविकल्पद्रुमः ॥ (दिवा०-उभ० क्लेदे शौचे च अक०-अन्यत्र सक०-सेट् । निष्ठायां अनिट् ।)
शौचं शुद्धिः । विशरणं विभेदः । क्लेदः आर्द्र- भावः । इर् अशुचत् अशोचीत् । य ञ, शुच्यते लोकः स्नानात् । शुच्यति गात्रं बाणः । शुच्यति वस्त्रमम्भसा । ई, शूक्तः । शुचि र पूतीभावे इति प्राञ्चः । रमानाथस्तु एतदनुरोधादेता- नर्थान् व्याख्याति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शुचः || शोके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
तालव्यादिः । शोचति । शोकः पुत्त्रादेरदर्शनाद्दुःखानुभवः । किं शोचते- हाभ्युदये वतास्मानिति भट्टिः । प्रियतमा मां शोचते शोचते । इति महानाटकम् । गण- कृतानित्यत्वादात्मनेपदम् । इति दुर्गादासः ॥