संस्कृत-शब्दकोशः

शुचि शुचिद्रुम

शुचिता

शब्दकल्पद्रुमः

शुचिता || स्त्री (शुचेर्भावः । शुचि + तल् ।)
शुचित्वम् । यथा, —
“शैत्थं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किञ्चान्यत् कथयाम ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन यास्यसि पयः कस्त्वां निषेद्धुं क्षमः ॥” इति लक्ष्मणसेनः ॥



Correction: