संस्कृत-शब्दकोशः

शुटीर्य शुण्टि

शुठ

वाचस्पत्यम्

शुठ ||‍ आलस्ये चु० उभ० सक० सेट् । शोठयति ते अशूशुठत् त ।


वाचस्पत्यम्

शुठ ||‍ गतिविघाते भ्वा० पर० सक० सेट् । शोठति अशोठीत् ।


वाचस्पत्यम्

शुठ ||‍ शोधने बा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । शुण्ठयति ते शुण्टति अशुशुण्ठत् त अशुण्ठीत् ।


शब्दकल्पद्रुमः

शुठ || इ कि शोषणे । इति कविकल्पद्रुमः । (चुरा० पक्षे भ्वा०-अक०-सेट् ।)
इ, शुण्ठ्यते । कि, शुण्ठयति शुण्ठति पत्रमातपात् । रमा- नाथस्तु भ्वादिपक्षे शुष्कीभावे । चुरादिपक्षे शुष्कीकरणेऽयमिति मत्वा भ्वादौ शुण्ठति पत्रं चुरादौ शुण्ठयति काष्ठमातप इत्युदाहृतवान् । वस्तुतस्तु उभयत्र शुष्कीभावः अन्यथा भौवा- दिकस्यैव प्रेरणवाचित्वाच्चुरादिपाठोऽनर्थकः स्यात् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शुठ || इ खोटने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
खोटनमिह गत्याघातः । इ, शुण्ठ्यते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शुठ || क आलस्ये । इति कविकल्पद्रुमः ॥ चुरा- पर०-अक०-सेट् ।)
क, शोठयति वृद्धः क्रियासु मन्दः स्यादित्यर्थः । इति दुर्गादासः ॥



Correction: