संस्कृत-शब्दकोशः

शुण्ठि शुण्ठ्य

शुण्ठी

वाचस्पत्यम्

शुण्ठी is an alternate of शुण्टि. शुण्टि(ण्ठी) ||‍ स्त्री शुठि—इन् वा ङीप् । (शुँट) शुष्कार्द्रके “शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः । स्नि- ग्धोष्णा मधुरा पाके कफवातविबन्धनुत् । वृव्या स्वर्य्या च निश्वासशूलकासहृदामयान् । हन्ति श्लीपदशोथार्श- स्तोयांशं परिशोधयेत्” भावप्र० ।


शब्दकल्पद्रुमः

शुण्ठी || स्त्री (शुण्ठि + वा ङीष् ।)
शुष्कार्द्रकम् । शुंट् इति भाषा ॥ तत्पर्य्यायः । महौषधम् २ विश्वम् ३ नागरम् ४ विश्वभेषजम् ५ । इत्य- मरः ॥ शुण्ठिः ६ विश्वा ७ महौषधी ८ । इति तट्टीका ॥ इन्द्रभेषजम् ९ भेषजम् १० । इति शब्दरत्नावली ॥ विश्वौषधम् ११ कटुग्रन्थिः १२ कटुभद्रम् १३ कटूष्णम् १४ सौपर्णम् १५ शृङ्गवेरम् १६ कफारि १७ चान्द्रकम् १८ शोषणम् १९ नागराह्वम् २० । अस्या गुणाः । कटुत्वम् । उष्णत्वम् । स्निग्धत्वम् । कफशोफा- निलशूलबन्धोदराध्मानश्वासश्लीपदनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “शुण्ठी रुच्यामवातघ्नी पाचनी कटका लघुः । स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ॥ वृष्या स्वर्य्या च निःश्वासशूलकासहृदामयान् । हन्ति श्लीपदशोथार्श-आनाहोदरमारुतान् ॥ आग्नेयगुणभूष्ठिं तोयांशं परिशोषयेत् । संगृह्णन्ति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ॥ विबन्धभेदिनी या तुसा कथं ग्राहिणी भवेत् । शक्तिर्व्विबन्धभेदे स्याद्यतो न मलपातने ॥” इति भावप्रकाशः ॥ अन्यच्च । “शुण्ठी तु कफवातघ्नी सस्नेहा लघुदीपनी । विपाके मधुरा वृष्या हृद्योष्णा कटुरोचनी ॥” इति राजवल्लभः ॥ शुण्ठ्यं, क्ली, शुण्ठी । इति शब्दचन्द्रिका ॥



Correction: