संस्कृत-शब्दकोशः

शुण्ठ्य शुण्डक

शुण्ड

वाचस्पत्यम्

शुण्ड ||‍ पु० शुन—ड तस्य नेत्त्वम् । १ मदनिर्झरे हेमच० । २ गज हस्ते पुंस्त्री० स्त्रीत्वे टाप् । ३ मद्यपानगृहे ४ वेश्यायां ५ सुरायां ६ जलहस्तिन्याञ्च स्त्री मेदि० । ७ नलिन्यां विश्वः । ८ कुट्टिन्याञ्च स्त्री शब्दमा० ।


शब्दकल्पद्रुमः

शुण्डः || पुं, (शुन गतौ + अमन्तात् डः ।)
मद- निर्झरः । इति हेमचन्द्रः ॥ करिकरश्च ॥ (यथा, महाभारते । ७ । ३५ । ३५ । “घण्टाशुण्डान् विषाणाग्रान् क्षुरमाख्यपदा- नुगान् । शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥”)



Correction: