शब्दकल्पद्रुमः
शुण्डा || स्त्री (शुन् + ड । टाप् ।) मद्यपानगृहम् । अम्बुहस्तिनी । वेश्या । सुरा । हस्तिहस्तः । इति मेदिनी ॥ शुँड् इति भाषा ॥ नलिनी ॥ इति विश्वः ॥ कुट्टनी । इति शब्दमाला ॥