वाचस्पत्यम्
शुद्ध || न० शुध—क्त । १ सैन्धवलवणे २ मरिचे च राजनि० । ३ केवले ४ निर्दोषे ५ पवित्रे मेदि० । ६ शुभ्रे च त्रि० । शुद्ध्यशुद्धी शास्त्रज्ञाप्ये संस्काररूपे यथोक्तं “शुद्ध्यशुद्ध्योः संस्काररूपत्वेन एकपुरुषस्यैकदोभयस्थिति र्घटते । शुद्धेर्भावरूपत्वे अशुद्धेस्तदभावरूपत्वे नैतत् विरोधात् । अतएव शङ्खः “ततः श्राद्धमशुद्धौ तु कुर्य्या- देकादशे तथा । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः” अशुद्धौ चतुर्थाहादौ । कथमशुद्धौ श्राद्धं? कालाशौ- चयोरधिकारिविशेषणत्वादत आह कर्तुस्तात्कालिकी शुद्धिरिति । श्राद्धविधानाक्षेपात् तन्मात्रनिष्ठा शुद्धिः कल्प्यते “स पुनरशुद्धः कर्मान्तरे” श्रा० वि० । शुद्धितत्त्वे च “एवं शुद्धेर्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधः तथात्वे अशौचसङ्करोऽपि न स्यात् । एकस्मिन् शुद्ध्य- भावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषी- यशुद्धिरूपप्रतियोग्यन्तराभावात् अनुपपत्तेः । तस्मात् शुद्ध्यशुद्ध्योर्भावरूपत्वम् । पद्मपु० उत्त० ख० १९ अ० कतिचिदशुद्धा उक्ताः । तद्भिन्न- स्यैव शुद्धता यथा ||“जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा । अप- वित्रो द्विजातीनां देहः सन्ध्यादिकर्मसु । अपूततनु- रुत्सर्गे नरो मूत्रपुरीषयोः । अस्पृश्यस्पर्शने चैव ब्रह्म- यज्ञजपादिषु । रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते । विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः । भुक्त्वा हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने । शयने ब्राह्मणादीनां शरीरं चुरकर्मणि । ज्वरादिभिश्चतुःषष्टिरोगैर्युक्त द्विजन्मनाम् । वघुरप्रयतं पूजादानहोमजपादिषु । धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः । तथा च रेतःस्खलने मर्त्यदेहाऽपवित्रता । अपवित्रं द्विजातीनां वपुः स्याद्राहुदर्शने । गर्हितदानग्रहणे पतिते पात- कादिभिः । अशौचान्तेन शुद्धिः स्यात् जातके मृतके- ऽपि च । सर्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्मसु” । मृतकादिभिन्ने स्नानापनेयतेति । अशौचशब्दे द्रव्यशुद्धि- शब्दे च दृश्यम् ।
शब्दकल्पद्रुमः
शुद्धं || क्ली (शुध + क्तः ।)
सैन्धवम् । मरिचम् । इति राजनिर्घण्टः ॥ मरिचपर्य्याये मृषं यद्भि- खितं तदशुहम् ॥
शब्दकल्पद्रुमः
शुद्धः || त्रि (शुध + क्तः ।)
केवलम् । (यथा, मनुः । ९ । २७९ । “तडागमेदकं हन्यादप्सु शुद्धवधेन वा । तद्वापि प्रतिसंकुर्य्यात् दाप्यस्तूत्तमसाहसम् ॥”)
निर्द्दोषः । (यथा, बृहत्संहितायाम् । ४९ । ४ । “सर्व्वे च शुद्धकाञ्चनविनिर्म्मिताः श्रेयसो वृद्ध्यै ॥”)
पवित्रः । इति मेदिनी ॥ (उज्ज्वलः । यथा, रघुः । १ । ४६ । “काप्यभिख्या तयोरासीत् व्रजतोः शुद्ध- वेशयोः ॥”)
शुक्लः । इति धरणिः ॥ रागान्तरामिश्रित- रागः । इति संगीतशास्त्रम् ॥ * ॥
शरीरा- शुद्धताकारणं यथा, — नारद उवाच । “मानवानां द्विजादीनां शरीरस्यापवित्रता । भवेत् केन प्रकारेण कथ्यतां तत् सदाशिव ॥ सर्व्ववेदपुराणादिशास्त्रज्ञानां द्विजन्मनाम् । जितेन्द्रियस्मृतिविदां तनोः कथय पूतताम् ॥ सदाशिव उवाच । यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् । देवर्षे शृणु तत् सर्व्वं नराणामानुपूर्व्विकम् ॥ जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा । अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्म्मसु ॥ अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः । अस्पृश्यस्पर्शने नैव ब्रह्मयज्ञजपादिषु ॥ रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते । विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः ॥ भुक्त्वा हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने । शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि ॥ ज्वरादिभिश्चतुःषष्टिरोगैर्युक्तद्विजन्मनाम् । वपुरप्रयतं पूजादानहोमजपादिषु ॥ धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः । तथा च रेतःस्खलने मर्त्यदेहापवित्रता ॥ अपवित्रं द्बिजादीनां वपुः स्याद्राहुदर्शने । गर्हितदानग्रहणे पतिते पातकादिभिः ॥ अशौचान्तेन शुद्धिः स्यात् जातके मृतकेऽपि च । सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु ॥” इति पाद्मे उत्तरखण्डे १९ अध्यायः ॥