संस्कृत-शब्दकोशः

शुद्धमति शुद्धवल्लिका

शुद्धमांस

वाचस्पत्यम्

शुद्धमांस ||‍ न० २१८३ पृ० कृतान्नशब्ददर्शिते पक्वमांसभेदे


शब्दकल्पद्रुमः

शुद्धमांसं || क्ली (शुद्धं मांसं यस्य ।)
मांसव्यञ्जन- विशेषः । यथा, —
“पाकपात्रे घृतं दद्यात्तैलं वा तदभावतः । तत्र हिङ्गुहरिद्राञ्च भर्ज्जयेत्तदनन्तरम् ॥ छागादेरस्थिरहितं मांसं तत् खण्डखण्डितम् धौतनिर्गालितं तस्मिन् घृते तद्भर्ज्जयेच्छनैः ॥ सिद्धयोग्यं जलं दत्त्वा लवणञ्च पचेत् ततः । सिद्धे जलेन संपिष्य वेसवारं परिक्षिपेत् ॥ द्रव्याणि वेसवारस्य नागवल्ली दलानि हि । तण्डुलाश्च लवङ्गानि मरिचानि समासतः । अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम् ॥ शुद्धमांसं परं वृष्यं वल्यं रुच्यञ्च बृंहणम् । त्रिदोषशमनं श्रेष्ठं दोपणं धातुवर्द्धनम् ॥” इति भावप्रकाशः ॥



Correction: