संस्कृत-शब्दकोशः

शुद्धवल्ली शुद्धान्तपालक

शुद्धान्त

वाचस्पत्यम्

शुद्धान्त ||‍ पु० शुद्धः निर्द्दोषः अन्तः पर्य्यन्तो यस्य । १ नृपा- न्तःपुरे उपचारात् तत्र स्थितायां २ राजयोषिति पुंस्त्री० “शुद्धान्तसम्भागनितान्ततुष्टे” इति नैषधम् । शुद्धं शुद्धिः ६ त० ३ अशौचान्ते ।


शब्दकल्पद्रुमः

शुद्धान्तः || पुं, शुद्धः अन्तो यस्य । शुद्धा रक्षकाः अन्ते यस्य इति वा ।)
अन्तःपुरम् । (यथा, कुमारे । ६ । ५२ । “विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्म्मभिः ॥”)
नृपस्यासर्व्वगोचरकक्षान्तरम् । इत्यमरमेदिन्यौ राजयोषित् । इत्यजयः ॥ (यथा, नैषधे । ३ । ९३ । “शुद्धान्तसंभोगनितान्ततुष्टे न नैषधे कार्य्यमिदं निगाद्यम् । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥”)
अशौचान्तः । इति धरणिः ।



Correction: