शब्दकल्पद्रुमः
शुद्धान्तपालकः || पुं, (शुद्धान्तं पालयतीति । पालि + ण्वुल् ।)
अन्तःपुररक्षकः । तत्पर्य्यायः । गृहदौवारिकः २ कक्षारक्षकः ३ रात्रि- हिण्डकः ४ । इति शब्दमाला ॥ तस्य लक्षणं यथा, —
“वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः । राज्ञामन्तपुराध्यक्षो विनीतश्च तथेष्यते ॥” इति मात्स्ये १८९ अध्यायः ॥