वाचस्पत्यम्
शुनःशेफ || पु० शुनैव शेफोऽस्य अलुक्समा० । विश्वामित्र- शिष्ये मुनिभेदे ।
शब्दकल्पद्रुमः
शुनःशेफः || पुं, मुनिविशेषः । स तु ऋचीकमुनि- पुत्त्रः । अम्बरीषेण यज्ञार्थं क्रीतः विश्वामित्रेण रक्षितश्च । इति रामायणे वाल्मीकीये बाल- काण्डे ६१ सर्गः ॥ (वरुणशापात् जलोदररोग- पीडितो हरिश्चन्द्रः अजीगर्त्तपुत्त्रं शुनःशेफं पशुं विधाय वरुणतुष्ट्यर्थं यज्ञमारब्धवान् । करुणा- र्द्रचित्तो शिश्वामित्रस्तु तमतीवव्याकुलमव- लोक्य मोचयामास । ततः प्रभृति शुनःशेफोऽयं विश्वामित्रस्य पुत्त्र इति प्रसिद्ध्वोऽभूत् । एतद्वृ- त्तान्तस्तु देवीभागवते ७ स्कन्धे १६ अध्याय- मारभ्य द्रष्टव्यः ॥ कुक्कु रशिश्ने, क्ली ॥