शब्दकल्पद्रुमः
शुनिः || पुं, (शुनति क्षिप्रं गच्छतीति । शुन गतौ + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । स च कित् ।) कुक्कुरः । इति हेमचन्द्रः