वाचस्पत्यम्
शुन्ध्यु || पु० शुन्ध—युच तस्य न अनादेशः । वायौ उणा० ।
शब्दकल्पद्रुमः
शुन्ध्युः || पुं, (शुन्ध शुद्ध्वौ + “यजिमनिशुन्धिदसि- जनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।)
अग्निः । इत्युणादिकोषः ॥ (आदित्यः । पक्षि- विशेषः । यथा, ऋग्वेदे । १ । १२४ । ४ । “उपो अदर्शि शुन्ध्युवो न वक्षः ॥” “शुन्ध्यु रादित्यः सर्व्वेषां शोधकत्वात् *** यद्वा- शुन्ध्य रिति जलचरः श्वेतवर्णः पक्षिविशेषः ।” इति तद्भाष्ये मायणः ॥)