वाचस्पत्यम्
शुभङ्कर || त्रि० शुभं कराति कृ—खच् मुम् च । २ मङ्गलकारके २ दुर्गायां स्त्री शब्दमा० ङीप् ।
शब्दकल्पद्रुमः
शुभङ्करः || त्रि (शुभं करोतीति । शुभ + कृ + खच् ।)
मङ्गलकारकः । यथा, भूरिप्रयोगे । “क्षेमङ्करः क्षेमकारो मद्रङ्करशुभङ्करौ ॥” स्वनामख्याताङ्कशास्त्रकारके, पुं, ॥ शुभङ्करी, स्त्री, (शुभं करोति या । कृ + खच् ङीष् ।)
पार्व्वती । इति शब्दरत्नावली ॥