वाचस्पत्यम्
शुभद || पु० शुभं ददाति दा—क । १ अश्वत्थवृक्षे राजनि० । २ मङ्गलदातरि त्रि० ।
शब्दकल्पद्रुमः
शुभदः || पुं, (शुभं ददातीति । दा + कः ।)
अश्वत्थ- वृक्षः । इति राजनिर्घण्टः ॥ शुभदातरि, त्रि ॥ (यथा, वृहत्संहितायाम् । ९ । २२ । “अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम् ॥”)