शब्दकल्पद्रुमः
शुभपत्रिका || स्त्री (शुभानि पत्राणि यस्याः । स्वार्थे कन् । टापि अत इत्वम् ।) शालपर्णी । इति राजनिर्घण्टः ॥ मङ्गलपत्रिका च ॥