वाचस्पत्यम्
शुभवासन || पु० शुभं वासयति मुखम् वासि—ल्यु । मुखवा- सने द्रव्ये शब्दच० ।
शब्दकल्पद्रुमः
शुभवासनः || पुं, (शुभं शोभनं यथा तथा वासयति मुखमिति । शुभ + वस + णिच् + ल्युः ।)
मुख- वासकरगन्धः । यथा, —
“मुखवासकरो गन्ध आमोदी मुखवासनः । सुखवासन इत्येके शुभवासन इत्यपि ॥” इति शब्दरत्नावली ॥