वाचस्पत्यम्
शुभसूचनी || स्त्री देवीभेदे (सुवचनी) “रक्ता पद्मचतुर्मुखी त्रिनयना चामीकरालङ्कृता पीनोत्तुङ्ककुचा दुकूल- वसना हंसाधिरूढा परा । ब्रह्मानन्दमयी कमण्डलु- कराक्षाभीतिहस्ता शिवा ध्येया सा शुभमूचनी त्रिज- गतागम्बापदुद्धारिणी” । सा च स्त्रीभिः पूज्या ।
शब्दकल्पद्रुमः
शुभसूचनी || स्त्री (शुभं सूचयतीति । सूच् + निच् + ल्युः । स्त्रियां ङीष् ।)
देवीविशेषः । सुवचनीति ख्याता । सा च स्त्रिया पूज्या । तस्याः ध्यानं यथा, —
“रक्ता पद्मचतुर्म्मुखी त्रिनयनी चामीकरालङ्कता पीन्नोत्तुङ्गकुचादुकूलवसना हंसाधिरूढा परा ब्रह्मानन्दमयी कमण्डलुकराक्षाभीतिहस्ता शिवा ध्येया सा शुभसूचनी त्रिजगतामम्बापदुद्धा- रिणी ॥” इत्याचारमोर्त्तण्डः ॥