शुभा
शुभाचार
शुभाङ्गी
शब्दकल्पद्रुमः
शुभाङ्गी || स्त्री (शुभानि अङ्गानि यस्याः । ङीष् ।)
कुबेरपत्नी । कामदेवपत्नी । इति केचित् ॥ (कुरुराजपत्नी । यथा, महाभारते । १ । ९५ । ३९ “कुरुः खलु दशार्होमुपयेमे शुभाङ्गीं नाम तस्यामस्य जज्ञे विदूरथः ॥”)
मङ्गलावयव- युक्ते, त्रि ॥