संस्कृत-शब्दकोशः

शुर शुल्कस्थान

शुल्क

वाचस्पत्यम्

शुल्क ||‍ कथने, सर्जने, वर्जने च चु० उभ० सक० सेट् । शुल्क० यति ते अशुशुल्कत् त ।


वाचस्पत्यम्

शुल्क ||‍ पु० न० शुल्क्यते अतिसृज्यते कर्मणि घञ् । १ घट्टादिदेये राजकरे मेदि० २ राजग्राह्यकरभेदे अमरः । वरपक्षात् कन्यापक्षीयैः ३ ग्राह्ये धने ४ स्त्रीधनभेदे “भगिनीशुल्कं सोदर्य्याणाम्” इति स्मृतिः । सम्भोगार्थं स्त्रीभ्यः देये ५ घने “अशुल्कोपहृतायास्तु पिण्डदावोढुरेव ते” इति स्मृतिः ६ पणे च ।


शब्दकल्पद्रुमः

शुल्क || क भाषे । सर्ज्जने । वर्ज्जने । इति कवि- कल्पद्रुमः ॥ (चरा०-पर०-सक०-सेट् ।)
क, शुल्कयति । शुल्क श्लोक इत्येतयोरेतावर्थौ कैश्चिन्न मन्यते । भाषः कथनम् । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

शुल्कः || पुं, क्ली, (शुल्क + घञ् ।)
घट्टादिदेयम् । मासुल इति भाषा । इत्यमरः ॥ घट्टः पन्थाः तत्र आदिना द्रव्यक्रयविक्रयस्थानादौ च यद्देयंदीयते स शुल्को जगात् इति घटी इति राज इति च ख्यातः । शलति प्रतिबन्धोऽनेनेति शुल्कः । शल ज गतौ तालव्यादिः नाम्नीतिकः निपा- तनादत उत्वम् । घट्ट चाले घट्ट्यतेऽत्र इति घञि घट्टः । घट्टो वर्त्मोति माधवी । घट्टो राजग्राह्य- ग्रहणस्थानादिरिति मुकुटः । घट्टो घाट इति ख्याते इति रमानाथः । इति तट्टीकायां भरतः ॥ (यथा, मनुः । ८ । ३०७ । “योऽरक्षन् बलिमादत्ते करं शुल्कञ्च पार्थिवः । प्रतिभागञ्च दण्डञ्च स सद्यो नरकं व्रजेत् ॥”)
वरादर्थग्रहणम् इति मेदिनी ॥ (यथा, मनुः । ३ । ५१ । “न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्क- मण्वपि । गृह्णन् शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥” पणः । यथा, महाभारते । १ । १९१ । ४ । “इत्युक्तो धनुरायम्य शुल्कावाप्तं महाबलः । भ्राता भीसेन सहितस्तस्थौ गिरिरिवाचलः ॥”)



Correction: