वाचस्पत्यम्
शुष || पु० शुष—क । १ गर्त्ते २ बिले च अजयपालः ।
वाचस्पत्यम्
शुष || शोषणे दि० पर० सक० अनिट् । शुष्यति ऌदित् अशुषत् ।
शब्दकल्पद्रुमः
शुष || य औ ॡ शोषे । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-अनिट् ।)
शोषः स्नेह- रहितोभावः । य, शुष्यति धान्यमातपेन । औ, शोष्टा ॡ । अ, अशुषत् । इति दुर्गादासः ॥ शुषः पुं,)
शष + कः ।)
‘शोषणम् । गर्त्तः । इत्य जयपालः ॥