वाचस्पत्यम्
शुश्रूषा || स्त्री श्रु—सन्—अ । १ श्रवणेच्छायाम् २ उपासने ३ कथने च ।
शब्दकल्पद्रुमः
शुश्रूषा || स्त्री (श्रु + सन् “अ प्रत्ययात् ।” ३ । ३ । १०२ । इति अः ।)
उपासनम् । (यथा, मनुः । २ । ११२ । “धर्म्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”)
कथनम् । श्रोतुमिच्छा । इति मेदिनी ॥ (यथा, कामन्दकीये । ४ । २२ । “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा । उहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”)