संस्कृत-शब्दकोशः

शुषि शुषिरा

शुषिर

वाचस्पत्यम्

शुषिर ||‍ न० शुष—किरच् । १ छिद्रे २ वंश्यादिवाद्ये ३ सच्छिद्रे त्रि० अमरः ४ मूषिके पुंस्त्री० मेदि० स्त्रियां ङीष् । ५ अग्नौ पु० विश्वः । ६ चित्रकवृक्षे ७ नद्यां स्त्री धरणिः । ८ नलीनामगन्धद्रव्ये स्त्री अमरः ।


शब्दकल्पद्रुमः

शुषिरं || क्ली (शुष शोषणे + “इषिमदिमुदिती ।” उणा० १ । ५२ । इति किस्च् । यद्वा, शुषि- श्छिद्रमस्यास्तीति । शुषि + “ऊषशुषिमुष्क- मधो रः ।” ५ । २ । १०७ । इति रः ।)
विवरम् । वंश्यादिवाद्यम् । सरन्धृए, त्रि । इत्यमरः ॥ (आकाशः । इत्युज्ज्वलदत्तः । १ । ५२ ॥)


शब्दकल्पद्रुमः

शुषिरः || पुं, (शुषिर्विलमस्यास्तीति । शुषि + रः ॥। मूषिकः । इति मेदिनी ॥ अग्निः । इति विश्वः



Correction: