वाचस्पत्यम्
शुष्कपत्त्र || न० शुष्कं पत्त्रमस्य । (नालता) १ शाकभेदे । “शुष्कपत्रं पयोमिश्रं पित्तश्लेष्मज्वराषहम् । तत् शुष्कपत्रं जलदोषनाशनं विशेषतः पित्तकफज्वराप- हम् । जलञ्च तस्यापि च पित्तहारकम् सुरोचनं व्यञ्ज- नयोयकारकम्” राजवल्लभः । कर्म० । २ शुष्के पर्णे न०