वाचस्पत्यम्
शुष्करेवती || स्त्री मातृकाभेदे “अस्थिभ्यश्च तथा काली सृष्टा पूर्वं महात्मना । तया तद्रुधिरं पीतमन्धकानां म- हात्मनाम् । सा चास्मिन् कयिता लोके नामतः शुष्क- रेवती” वह्निपु० १५४ अ० ।
शब्दकल्पद्रुमः
शुष्करेवती || स्त्री मातृकाविशेषः । यथा, —
“अस्थिभ्यश्च तथा काली सृष्टा पूर्व्वं महात्मना तथा तद्रुधिरं पीतमन्धकानां महात्मनाम् । या चास्मिन् कथिता लोके नामतः शुष्क- रेवती ॥” इति मत्स्यपुराणे १५४ अध्यायः ॥