संस्कृत-शब्दकोशः

शुष्ण शुष्मन्

शुष्म

वाचस्पत्यम्

शुष्म ||‍ न० शुष—मन् किच्च । १ तेजसि मेदि० २ पराक्रमे हेमच० । ३ सूर्य्ये पु० मेदि० ४ अग्नौ त्रिका० ५ चित्रकवृक्षे ६ वायौ ७ पक्षिणि संक्षिप्तसा० ८ अर्चिषि च पु० भरतः ।


शब्दकल्पद्रुमः

शुष्मं || क्ली शुष्यत्यनेनेति । शुष शोषे + “अवि- सिविसिशुषिभ्यः कित् ।” उणा० १ । १४३ । इति मन् । स च कित् ।)
तेजः । इति मेदिनी ॥ पराक्रमः । इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

शुष्मः || पुं, (शुष्यत्यनेनेति । शुष + मन् ।)
सूर्य्यः । इति मेदिनी ॥ अग्निः । इति त्रिकाण्डशेषः ॥ वायुः । पक्षी । इति संक्षिप्तसारोणादिवृत्तिः ॥ अर्च्चिः । यथा । शुष्मोऽर्च्चिषि हुताशने । इति शुभाङ्कः । इत्यमरटीकायां भरतः ॥



Correction: