वाचस्पत्यम्
शुष्मन् || न० शुष—ङ्मनिप् । १ तेजसि जटा० । २ शौर्य्ये हेमच० ३ अग्नौ ४ चित्रकवृक्षे च पु० अमरः ।
शब्दकल्पद्रुमः
शुष्म || [न्] क्ली, (शुष + मनिन् । संज्ञापूर्व्वकत्वात् नगुणः ।)
तेजः । इति जटाधरः ॥ सौर्य्यम् । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
शुष्मा || [न्] पुं, (शुष्यत्यनेनेति । शुष शोषे + मनिन् ।)
अग्निः । चित्रकवृक्षः । इत्यमरः ॥ अदन्तोऽपि शुष्मेति सर्व्वस्वम् । इति भरतः ॥