संस्कृत-शब्दकोशः

शूकरकन्द शूकरपादिका

शूकरदंष्ट्र

शब्दकल्पद्रुमः

शूकरदंष्ट्रः || पुं, क्षुद्ररोगविशेषः । तल्लक्षणमाह । “सदाहो रक्तपर्य्यन्तस्त्वक्पाकी तीव्रवेदनः । कण्डूमान् ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ॥” स गुदभ्रंशः ॥ * ॥
तच्चिकित्सा यथा, —
“भृङ्गराजकमूलस्य रजन्या सहितस्य च । चूर्णन्तु सहसा लेपाद्वाराहद्विजनाशनम् ॥ राजीवमूलकल्कस्तु पीतो गव्येन सर्पिषा प्रातः शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतज्वरं घोरम् ॥ रजनीमार्कवमूलं पिष्टं शीतेन वारिणा । तल्लेपाद्धन्ति वीसर्पं वाराहदशनाह्वयम् ॥” इति भावप्रकाशः ॥



Correction: