संस्कृत-शब्दकोशः

शूद्रकर्म्मन् शूद्रधर्म

शूद्रकृत्य

शब्दकल्पद्रुमः

शूद्रकृत्यं || क्ली (शूद्रस्य कृत्यम् ।)
शूद्रकर्त्तव्य- कर्म्म यथा, —
“प्रणम्य सच्चिदासन्दं शूद्राणां न्यायवर्त्तिनाम् । श्राद्धाहःकृत्ययोस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥” तच्च मत्स्यपुराणम् । “एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धञ्च सर्व्वदा । नमस्कारेण मन्त्रेण कुर्य्यादामान्नवद्बृधः ॥ दानः प्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः । दानेन सर्व्व कामाप्तिरस्य संजायते यतः ॥” ततो दानमेवापेक्षितंन तु भोजनमपि । सामान्यं सर्व्वजनकर्त्तव्यत्वेनप्रतिमासकृष्णपक्षादिविहित श्राद्धं आभ्यु दयिकश्राद्धञ्च एवं द्विजातिवत् शूद्रोऽपि कुर्य्यादित्यन्वयः । नमस्कारेण मन्त्रेण नतुस्वयं पठितमन्त्रेण आमान्नवदित्यनेनजलसेक सिद्धान्नव्यावृत्तिः । स्विन्नमन्नमुदाहृतम् । इति वशिष्ठे न स्विन्नस्यैवान्नत्वाभिधानात् । कन्दुपक्वस्ये भृष्टत्वं नतु सिन्नत्वम् । हारीतेन स्वेदनभर्ज्ज- नयोः पृथक्त्वमुक्तम् । यथा । आदीपनतापन- स्वेदनभर्ज्जनपचनादिभिः प्रञ्चमीति अस्यार्थः । आदीपनं काष्ठानाम् तापनं तोयादेः । स्वेदनं धान्यादेः । भर्ज्जनं यवादेः । पचनं तण्डुलादेः । इति पञ्चमी । सूना इति कल्पतरुः । अतएव स्विन्नधान्येन व्यवह्रियते । “कन्दुपक्वानि तैलेन पायसं दधि शक्तवः । द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ॥” इति कुर्म्मपुराणवचनेन शूद्रकर्त्तृककन्दुपक्वादे र्ब्राह्मणस्य भक्ष्यत्वेन श्राद्धे देयत्वं युक्तम् । कन्दु पक्वं जलोपसेकं विना केवलपात्रेण यद्वह्णिना पक्वम् । पायसं पाकेन काठिन्यविकारापन्नं दुग्धम् । परमान्नपरत्वे पुंलिङ्गनिर्द्देशापत्तेः ॥ तथा चामरः । परमान्नस्तु पायस इति । “दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्द्विजान् । अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्ज्जितः ॥” इति श्राद्धचिन्तामणिधृतवराहपुराणवचनमपि कन्दुपक्वपरम् । एवन्तु एतद्वचनं सच्छू द्रपरं मैथिलोक्तं हेयम् । एवं आममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयम् । तत्र द्रव्य- देवताप्रकाशार्थं ब्राह्मणेन मन्त्राः । पाठ्याः । “अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः । अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥” इति वराहपुराणात् ॥ अयं श्राद्धेतिकर्त्तव्यताको विधिः शूद्रकर्त्तृकमन्त्र- पाठरहितः । शूद्रस्य मन्त्रपाठानधिकारसिद्धौ यदमन्त्रस्येति पुनर्वचनं तत् स्त्रिया ग्रहणार्थं परिभाषार्थञ्च । ततश्च तत्कर्म्मसम्बन्धिमन्त्रेण विप्रस्तदीयकर्म्मकारयितृब्राह्मणो गृह्यतो तेन बाह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्य्यम् । तत्र यजुर्व्वेदिको मन्त्रः । तथा च स्मृतिः । “आर्षक्रमेण सर्व्वत्र शद्रा वाजसनेयिनः । तस्माच्छूद्रः स्वयं कर्म्म यजुर्व्वेदीव कारयेत् ॥” आर्षक्रमेणमुन्यु क्तक्रमेण यजुर्वेदिसम्बन्धिगृह्या- दिना । “चतुर्णामपि वर्णानां यानि प्रोक्तानि वेधसा । धर्म्मशास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम ॥ विशेषतस्तु शूद्राणां पावनानि मनीषिभिः । अष्टादश पुराणानि चरितं राघवस्य च ॥ रामस्य कुरुशार्दुल धर्म्मकामार्थसिद्धये । तथोक्तं भारतं वीर पाराशर्य्येण धीमता । वेदार्थं सकलं योज्यं धर्म्मशास्त्राणि च प्रभो ॥” इति भविष्यपुराणवचनात्तेषां पौराणिकादि- विधिर्योज्यो योजयित्रा । अत्र च श्राद्धे वेद- मन्त्रवर्ज्जं शूद्रस्येतिवचने वेदेत्युपादानात् श्राद्धे पुराणमन्त्रः शूद्रेण पठनीय इति मैथिलोक्तम् तन्न वराहपुराणे शूद्राणां मन्त्रवर्ज्जित इत्यनेन मन्त्रमात्रनिषेधात् मत्स्यपुराणेन नमस्कारेण मन्त्रेण इत्युपादानाच्च । पौराणिकस्यापि श्राद्धे निषेधः प्रतीयते । एवं स्नानेऽपि । “ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते । तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥” इत्यनेन नमस्कारविधानात् पञ्चयज्ञेऽपि । “शूद्रस्य द्बिजशूश्रूषा तथा जीवनवान् भवेत् । शिल्पैर्वा विविधैजीवेत् द्विजातिहितमा- चरन् ॥ भार्य्यारतिः शुचिर्भृत्यभर्त्ता श्राद्धक्रियारतः । नमस्कारेण मन्तेण पञ्चयज्ञान्न हापयेत् ॥” इति नमस्कारमात्रविधानात् श्राद्धादिषु पौरा- णिकमन्त्रनिषेधः ततश्च स्नानश्राद्धपञ्चयज्ञे तरत्र शूद्रस्य पौराणिकमन्त्रपाठः प्रतीयते । अत्र । “षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥” इति मनुवचनात् । चूडा कार्य्या यथाकुलं इति याज्ञवल्क्यवचनाच्च संस्कारमात्रे कुलघर्म्मानु- रोधेन कालान्तरस्य नामविशेषोच्चारणस्याभि धानाच्च शूद्रादीनां नामकरणे वसुघोषादिक- पद्धतियुक्तनामकरणस्यच प्रतीतेर्व्वैदिककर्म्मणि शूद्रानां पद्धतियुक्तनामाभिधानं क्रियते इति ॥ शूद्रस्त्वाचमने दैवतीर्थेन ओष्ठे जलं सकृत् क्षिपेत् न पिबेत् । तथा च याज्ञवल्क्यः । “हृत्कण्ठतालुगाद्भिस्तु यथासंख्यं द्विजातयः । शुद्धेरन् स्त्री च शूद्रश्च सकृत् स्पृष्टाभिरन्ततः ॥” अन्ततो हृदयादिसमीपेन ओष्ठेन उत्तरोत्तर- मपकर्षात् । अतएव स्पृष्टाभिरित्युक्तं न तु भक्षिताभिरिति । “स्त्री शूद्रः शुध्यते नित्यं क्षालनाच्च करोष्ठयोः ॥” इति ब्रह्मपुराणवचनञ्च । याज्ञवल्क्यः । “प्राग्वा ब्राह्म्येण तीर्थेन द्विजो नित्यमुप- स्पृशेत् ।” अत्र द्विजस्यैव आचमने ब्राह्म्यतीर्थोपादानात् स्त्रीशूद्रयोर्ण तेनाचमनम् । एवमेव मिता- क्षरायां व्यक्तमुक्तं मरीचिना । “स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च । सकृदाचमनाच्छुद्विरेतयोरेव चोभयोः ॥” इति । एतदनन्तरं इन्द्रियादिस्पर्शनन्तु ब्राह्मणवदेव । प्रमाणान्तरन्तु वाजसनेयिसामगश्राद्धाह्निक- तत्त्वयोरनुसन्धेयम् । इति वन्द्यघटीयश्रीहरिहर भट्टाचार्य्यात्मज-श्रीरघुनन्दनभदृआचार्य्यविरचितं शूद्राह्निकाचारतत्त्वं समाप्तम् ॥



Correction: