वाचस्पत्यम्
शूद्रान्न || न० ६ त० । शूद्रस्वामिकान्ने तस्य द्विजैरभक्ष्यर्त्वं यथा हारीतः “शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः । स वैखरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति” म० त० धृत वाक्यं शूद्रान्नं शूद्रस्वामिकान्नं रघु० । “आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्टमुच्यते” इति तत्पक्वान्नस्य सर्वथा निषेधादत्र अस्मिन्नमेव शूद्रस्वामिकान्नं गृह्यते । तद्दत्त- मपि भोजनकाले तद्गृहावस्थितं तदपि शूद्रान्नं तदा- हाङ्गिराः “शूदवेश्मनि विप्रेण क्षीरं वा यदि वा दधि । निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम्” तेन शूद्रवेश्मस्थितक्षीरदध्यादिकमपि शूद्रान्नं पारिभा- षिकमित बोध्यम् । निवृत्तेन शूद्रान्नानिवृत्तेन । तदपीति अपिशब्दात् साक्षाद्दत्तघृततण्डुलादि न तु तद्दत्तकपर्दका- दिना क्रीतमपि । स्वगृहागते शूद्रान्ने अङ्गिराः “यथा यतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः । शूद्राद्विप्र- गृहेष्वन्नं प्रविष्टन्तु सदा शुचि” प्रविष्टं स्वत्वापादक- प्रतिग्रहादिनेति शेषः । अतएव पराशरः “तावद्भवति शूद्रान्नं यावन्न स्पृशति द्विजः । द्विजातिकरसंस्पृष्टं सर्वं तद्धविरुच्यते” । स्पृशति प्रतिगृह्णातीति कल्पतरुः । तच्च संप्रोक्ष्य ग्राह्यमित्याह विष्णुपु० “संप्रोक्ष्य प्रतिगृ- ह्लीया शूद्रान्नं गृहमागतम्र” तच्च पात्रान्तरे ग्राह्यमि- त्याहाङ्गिराः “स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः । पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम्” । एतेन स्वगृहमागतस्यैब शुद्धत्वं प्रतीयते ततश्चैतादृगपि मुर्मूषुणा शूद्रान्नं सर्वथा न भोक्तव्यम् प्रागुक्तहारीत- वचने तन्निन्दाश्रवणात्” शु० त० । “नाद्यात् शूद्रस्य विप्रो- ऽन्नं मोहाद्वा यदि वान्यतः । स शूदयोनिं व्रजात यस्तु भुङ्क्ते ह्यनापदि । षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् । जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते । ब्राह्मणक्षत्रियविशां शूद्रम्य च मनी- षिणः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्” व्यासवाक्यम् “आर्त्विजः कुलमित्रञ्च गोपालो दासना- पितौ । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् । कृषीवलः कुम्भकारः क्षेत्रकर्षक एव च । एते शूद्रेषु भोज्यान्ना दत्त्वा खल्पपणं बुधैः । पायसं स्निग्धपक्वञ्च यावकञ्चैव सक्तवः । पिन्याकञ्चैव तैलञ्च शूद्राद् ग्राह्यं द्विजातिभिः” कूर्मपु० ७ त० भागे १६ अ० । “कन्दुपक्वानि तैलेन पायसं दधिसक्तवः । द्विजैरेतानि भोज्यानि शूद्र- गेहकृतान्यपि” । “कुलमित्रादीनां भोज्यान्नता तु कली- तत्परा । शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणाम् । भोज्यान्नता मृहस्थस्य तीर्थसेवाऽतिदूरतः” षराशरेण कलौ वर्ज्यस्योक्तेः शूद्रोऽपि ब्राह्मणद्वारा पक्वान्नेन नैवेद्यं दातुमर्हति वृषोत्सर्गाङ्गचरुपाकादिवत् तत्रापि तस्याधिकार इति ति० त० दुर्गोत्सवप्रकरणे रघुनन्दनेन व्यवस्थापितम् तत्र दृश्यम् ।
शब्दकल्पद्रुमः
शूद्रान्न || क्ली (शूद्रस्य अन्नम् ।)
शूद्रस्वामिकान्नम् । यथा, —
“शूदान्ने तु भुक्तेन उदरस्थेन यो मृतः । स व खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥” शूद्रान्नं शूद्रस्वामिकान्नम् । इति शुद्धितत्त्वम् ॥ अन्यत् शूद्रशब्दे द्रष्टव्यम् ॥