वाचस्पत्यम्
शूना || स्त्री श्वि—अधिकरणे—क्त सम्प्र० दीर्घः । १ प्राणिबधस्थाने हला० “पञ्च शूना गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्” मनुः । तद्दोषनिवृत्तये कार्का मनुना पञ्च यज्ञा विहिता यथा “अध्यापनं ब्रह्म- यज्ञः पितृयज्ञस्तु तर्पणम् । हौमो दैवौ वलिर्भोती नृयज्ञाऽतिथिपूजनम् । पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं शूनादोषैर्न लिप्यते” । (आलजिभ) २ अधोजिह्वायां हारा० ।
शब्दकल्पद्रुमः
शूना || स्त्री (श्वयन्ति मृत्युं गच्छन्ति कीटादयो यत्र । श्वि + क्तः । टाप् ।)
प्राणिवधस्थानम् । इति हलायुधः ॥ पञ्चविधा शूना यथा, —
“पञ्च शूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च वध्यते याश्च वाहयन् ॥” पञ्चशूनापापनाशो यथा, मनुः । “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवी वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं शूनादोषैर्न लिप्यते ॥” इति प्रायश्चित्ततत्त्वम् ॥ अधोजिह्विका । इति हारावली ॥