संस्कृत-शब्दकोशः

शूनावत् शून्यमध्य

शून्य

वाचस्पत्यम्

शून्य ||‍ त्रि० शूनायै प्राणिबधाय हितम् रहस्यस्थानत्वात् यत् । १ निर्जनस्थाने मेदि० । २ आकाशे शब्दच० । ३ बिन्दुमात्रे हेमच० । ४ अभावे च अमरः । ५ असम्पूर्णे ६ ऊने ७ तुच्छे च त्रि० अमरः ।


शब्दकल्पद्रुमः

शून्यं || क्ली आकाशम् । इति शब्दचन्द्रिका ॥ (यथा, भागवते । ६ । १३ । २० । “स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥”)
बिन्दु इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

शून्यः || त्रि अतिशयेन ऊनः । अभावविशिष्टः । असम्पूर्णः । खालि इति पारस्यभाषा । तत्- पर्य्यायः । वशिकः २ तुच्छः ३ रिक्तकः ४ । इत्यमरः ॥ शुन्यम् ५ । इति तट्टीकायां भरतः ॥ “अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा । पुत्त्रहीनं गृहं शून्यं सर्व्वशून्या दरिद्रता ॥” इति चाणक्यम् ॥ (शून्यायै प्राणिहिंसायै हितः रहस्यस्थानत्वात् शूना + यत् । यद्वा, शूने हितम् । श्वन् + “शुनः । सम्प्रसारणं वा च दीर्घत्वम् । ५ । १ । २ । इत्यस्य वार्त्तिकोक्त्या यत् सम्प्रसारणं दीर्घत्वञ्च ।)
निर्ज्जनः । इति मेदिनी ॥ (यथा, भट्टिः । १८ । २९ “केन संविद्रते नान्यस्त्वतो वान्धववत्सलः । विरौमि शून्यं प्रोर्णौमि कथं मन्युसमुद्भवम् ॥”)



Correction: