शब्दकल्पद्रुमः
शून्यालयः || पुं, (शून्य आलयः ।)
निर्ज्जनगृहम् । अत्र शयननिषेधो यथा । “मार्कण्डेयः । ‘शून्यालये श्मशाने च एकवृक्षे चतुष्पथे । महादेवगृहे चापि शर्करालोष्टपांशुषु ॥ धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि । न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम् ॥ नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः । नाकाशे सर्व्वशून्ये च न च चैत्यद्रुमे तथा ॥’ न स्वपेदित्यर्थः ।” इत्याह्निकतत्त्वम् ॥