वाचस्पत्यम्
शूरसेन || पु० शूरा सेना यत्र, यस्य वा । १ देशभेदे २ नृपभेदे च ।
शब्दकल्पद्रुमः
शूरसेनः || पुं, (शूराः सेना यस्य ।)
राजविशेषः । देशविशेषः । यथा, —
“शूरसेनो यदुपतिर्मथुरामावसन् पुरीम् । माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा ॥” इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥