वाचस्पत्यम्
शूर्प || पु० शूर्प्यते धान्यादिकमनेन शूर्प—घञ् । (कुला) धान्या- दिस्फोटके १ वंशमयपात्रे २ द्रोणद्वयपरिमाणे च शब्दच० ।
वाचस्पत्यम्
शूर्प || माने चु० उभ० सक० सेट् । शूर्पयति ते अशुशूर्पत् त ।
शब्दकल्पद्रुमः
शूर्प || क माने । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
षष्ठस्वरी । क, शूर्पयति धान्यं गृही । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शूर्पः || पुं, क्ली, (शूर्पयति धान्यादीनिति । शूर्प + अच् । यद्वा शॄहिंसायाम् + “षुशॄभ्यां निच्च ।” उणा० ३ । २६ । इति पः । चकारात् स च कित् ।)
तण्डुलादिस्फोटनार्थं वंशादिनिर्म्मित- पात्रविशेषः । कुला इति भाषा । तत्पर्य्यायः । प्रस्फोटनम् २ । इत्यमरः ॥ सूर्पः ३ कुल्यः ४ प्रस्फोटनी ५ । इति शब्दरत्नावली ॥ (यथा, “विसृज्य सूर्पवत् दोषान् गुणान् गृह्णन्ति साधवः ॥”)
द्रोणद्वयपरिमाणम् । इति शब्दमाला ॥