वाचस्पत्यम्
शूर्पकर्ण || पुंस्त्री० शूर्प इव कर्णो यस्य । १ गजे त्रिका० । स्त्रियां ङीष् । २ शूर्पश्रुतिरप्यत्र हारा० ।
शब्दकल्पद्रुमः
शूर्पकर्णः || पुं, (सूर्पाविव कर्णी यस्य ।)
हस्ती । इति त्रिकाण्डशेषः ॥ कुल्यतुल्यश्रुतियुक्ते, त्रि (यथा, कथासरित्सागरे । ५५ । १६५ । “घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्- कटः ॥”)