वाचस्पत्यम्
शूर्पणखा(खी) || स्त्री शूर्प इव नखा अस्याः णत्वम् वा ङीष् । रावणभगिन्यां शब्दमा० ।
शब्दकल्पद्रुमः
शूर्पणखा || स्त्री (शूर्पा इव नखा यस्याः । “पूर्व्व- पदात् संज्ञायामगः ।” ८ । ४ । ३ । इति णचम् । “नखमुखात् संज्ञायाम् ।” ४ । १ । ५८ । इति न ङीप ।)
रावणभगिनी । इति शब्द- मालाशब्दरत्नावल्यौ ॥ (यथा, रघुः । १२ । ३८ । “रूपं शूर्पणखानाम्नः सदृशं प्रत्यपद्यत ॥”)