संस्कृत-शब्दकोशः

शूल शूलग्रन्थि

शूलक

वाचस्पत्यम्

शूलक ||‍ पुंस्त्री० शूल + संज्ञावां कन् । १ दुर्विभाग्ये हेमच० । स्त्रियां ङीष् । स्वार्थे क । २ शूलशब्दार्थे ।


शब्दकल्पद्रुमः

शूलकः || पुं, (शूल इव दुर्व्विनीतत्वात् । कन् ।)
दुर्वृत्तघोटकः । इति हलायुधः ॥ अत्र शूकल इत्यपि पाठो दृश्यते । यथा, —
“विनीतस्तु साधुवाही दुर्विनीतस्तु शूलकः ।” इति हेमचन्द्रः ॥



Correction: