वाचस्पत्यम्
शूलघातन || न० शूलं रोगभेदं घातयति हन—णिच्—ल्यु । मण्डूरे शब्दच० ।
शब्दकल्पद्रुमः
शूलघातनं || क्ली (शूलं तद्रोगं घातयतीति । हन + णिच् + ल्युः ।) मण्डूरम् । इति शब्द- चन्द्रिका ॥